|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.138. अध्यायः 138
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति श्राद्धे वर्जनीयधान्यशाकादिप्रतिपादकात्रिनिमिसंवादानुवादः॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Text
युधिष्ठिर उवाच।
केन सङ्कल्पितं श्राद्धं कस्मिन्काले किमात्मकम्।
भृग्वङ्गिरसिके काले मुनिना कतरेण वा॥ 13-138-1(86737)
`येन सङ्कल्पितं चैव तन्मे ब्रूहि पितामह।'
कानि श्राद्धेषु वर्ज्यानि कानि मूलफलानि च।
धान्यजात्यश्च का वर्ज्यास्तन्मे ब्रूहि पितामह॥ 13-138-2(86738)
भीष्म उवाच। 13-138-3x(7188)
यथा श्राद्धं सम्प्रवृत्तं यस्मिन्काले सदात्मकम्।
येन सङ्कल्पितं चैव तन्मे शृणु जनाधिप॥ 13-138-3(86739)
स्वायम्भुवोऽत्रिः कौरव्य परमर्षिः प्रतापवान्।
तस्य वंशे महाराज दत्तात्रेय इति स्मृतः॥ 13-138-4(86740)
दत्तात्रेयस्य पुत्रोऽभून्निमिर्नाम तपोधनः।
निमेश्चाप्यभवत्पुत्रः श्रीमान्नाम श्रिया वृतः॥ 13-138-5(86741)
पूर्णो वर्षसहस्रान्ते स कृत्वा दुष्करं तपः।
कालधर्मपरीतात्मा निधनं समुपागतः॥ 13-138-6(86742)
निमिस्तु कृत्वा शौचानि विधिदृष्टेन कर्मणा।
सन्तापमगमत्तीप्रं पुत्रशोकपरायणः॥ 13-138-7(86743)
अथ कृत्वोपकार्याणि चतुर्दश्यां महामतिः।
तमेव गणयञ्शोकं विरात्रे प्रत्यबुध्यत॥ 13-138-8(86744)
तस्यासीत्प्रतिबुद्धस्य शोकेन व्यथितात्मनः।
मनः संहृत्य विषये बुद्धिर्विस्तारगामिनी॥ 13-138-9(86745)
ततः सञ्चिन्तयामास श्राद्धकल्पं समाहितः।
यानि तस्यैव भोज्यानि मूलानि च फलानि च॥ 13-138-10(86746)
उक्तानि यानि चान्यानि यानि चेष्टानि तस्य ह।
तानि सर्वाणि मनसा विनिश्चित्य तपोधनः॥ 13-138-11(86747)
अमावास्यां महाप्राज्ञो विप्रानानाय्य पूजितान्।
दक्षिणावर्तिकाः सर्वा बृसीः स्वयमथाकरोत्॥ 13-138-12(86748)
सप्त विप्रांस्ततो भोज्ये युगपत्समुपानयत्।
ऋते च लवणं भोज्यं श्यामाकान्नं ददौ प्रभुः॥ 13-138-13(86749)
दक्षिणाग्रास्ततो दर्भा विष्टरेषु निवेशिताः।
पादयोश्चैव विप्राणां ये त्वन्नमुपभुञ्जते॥ 13-138-14(86750)
कृत्वा च दक्षिणाग्नान्वै दर्भान्स प्रयतः शुचिः।
प्रददौ श्रीमते पिण्डान्नामगोत्रमुदाहरन्॥ 13-138-15(86751)
तत्कृत्वा स मुनिश्रेष्ठो धर्मसङ्करमात्मनः।
पश्चात्तापेन महता तप्यमानोऽभ्यचिन्तयत्॥ 13-138-16(86752)
अकृतं मुनिभिः पूर्वं किं मयेदमनुष्ठितम्।
कथं नु शापेन न मां दहेयुर्ब्राह्मणा इति॥ 13-138-17(86753)
ततः सञ्चिन्तयामास वंशकर्तारमात्मनः।
`बुद्ध्वाऽत्रिं मनसा दध्यौ भगवन्तं समाहितः।'
ध्यातमात्रस्तथा चात्रिराजगाम तपोधनः॥ 13-138-18(86754)
अथात्रिस्तं तथा दृष्ट्वा पुत्रशोकेन कर्शितम्।
भृशमाश्वासयामास वाग्भिरिष्टाभिरव्ययः॥ 13-138-19(86755)
निमे सङ्कल्पितस्तेऽयं पितृयज्ञस्तपोधन।
मतो मे पूर्वदृष्टोऽत्र धर्मोऽयं ब्रह्मणा स्वयम्॥ 13-138-20(86756)
सोयं स्वयभुविहितो धर्मः सङ्कल्पितस्त्वया।
ऋते स्वयम्भुवः कोऽन्यः श्राद्धे संविधिमाहरेत्॥ 13-138-21(86757)
अथाख्यास्यामि ते पुत्र श्राद्दे यं विधिमुत्तमम्।
स्वयम्भुविहितं पुत्र तत्कुरुष्व निबोध मे॥ 13-138-22(86758)
कृत्वाऽग्निशरणं पूर्वं मन्त्रपूर्वं तपोधन।
ततोऽग्नयेऽथ सोमाय वरुणाय च नित्यशः॥ 13-138-23(86759)
विश्वेदवाश्च यि नित्यं पितृभिः सह गोचराः।
तेभ्यः सङ्कल्पिता भागाः स्वयमेव स्वयम्भुवा॥ 13-138-24(86760)
स्तोतव्या चेह पृथिवी लोकस्यैव तु धारिणी।
वैष्णवी काश्यपि चेति तथैवेहाक्षयेति च॥ 13-138-25(86761)
उदकानयने चैव स्तोतव्यो वरुणो विभुः।
ततोऽग्निश्चैव सोमश्च आराध्याविह तेऽनघ॥ 13-138-26(86762)
देवास्तु पितरो नाम निर्मिता ये स्वयम्भुवा।
ऊष्मपा ये महाभागास्तेषां भागः प्रकल्पितः॥ 13-138-27(86763)
ते श्राद्धेनार्च्यमाना वै विमुच्यन्ते ह किल्बिषात्।
सप्तकाः पितृवंशास्तु पूर्वदृष्टाः स्वयंभुवा॥ 13-138-28(86764)
विश्वे चाग्निमुखा देवाः संख्याताः पूर्वमेव ते।
तेषां नामानि वक्ष्यामि भागार्हाणां महात्मनाम्॥ 13-138-29(86765)
सहः कृतिर्विपाप्मा च पुण्यकृत्पावनस्तथा।
ग्राम्यः क्षेम्यः समूहश्च दिव्यसानुस्तथैव च॥ 13-138-30(86766)
विवस्वान्वीर्यवाञ्श्रीमान्कीर्तिमान्कृत एव च।
जितात्मा मुनिवीर्यश्च दीप्तरोमा भयङ्करः॥ 13-138-31(86767)
अनुकर्मा प्रतीतश्च प्रदाताऽप्यंशुमांस्तथा।
शैलाभः परमक्रोधी धीरोष्णी भूपतिस्तथा॥ 13-138-32(86768)
स्रजो वज्रीवरी चैव विश्वेदेवाः सनातनाः।
विद्युद्वर्चाः सोमवर्चाः सूर्यश्रीश्चेति नामतः॥ 13-138-33(86769)
सोमपः सूर्यसावित्रो दत्तात्मा पुण्डरीयकः।
उष्णीनाभो नभोदश्च विश्वायुर्दीप्तिरेव च॥ 13-138-34(86770)
चमूहरः सुरेशश्च व्योमारिः शङ्करो भवः।
ईशः कर्ता कृतिर्दक्षो भुवनो दिव्यकर्मकृत्॥ 13-138-35(86771)
गणितः पञ्चवीर्यश्च आदित्यो रश्मिवांस्तथा।
सप्तकृत्सोमवर्चाश्च विश्वकृत्कविरेव च॥ 13-138-36(86772)
अनुगोप्ता सुगोप्ता च नप्ता चेश्वर एव च।
कीर्तितास्ते महाभागाः कालस्य गतिगोचराः॥ 13-138-37(86773)
अश्राद्धेयानि धान्यानि कोद्रवाः पुलकास्तथा।
हिङ्गुद्रवेषु शाकेषु मूलानां लशुनं तथा॥ 13-138-38(86774)
पलाण्डुः सौभाञ्जनकस्तथा गृञ्जनकादयः।
कूश्माण्डजात्यलाबुं च कृष्णं लवणमेव च॥ 13-138-39(86775)
ग्राम्यवाराहमांसं च यच्चैवाप्रोक्षितं भवेत्।
कृष्णाजं जीरकं चैव शीतपाकी तथैव च।
अङ्कुराद्यास्तथा वर्ज्या इह शृङ्गाटकानि च॥ 13-138-40(86776)
वर्जयेल्लवणं सर्वं तथा जम्बूफलानि च।
अवक्षुतावरुदितं तथा श्राद्धे च वर्जयेत्। 13-138-41(86777)
निवापे हव्यकव्ये वा गर्हितं च सुदर्शनम्।
पितरश्च हि देवाश्च नाभिनन्दन्ति तद्धविः॥ 13-138-42(86778)
चण्डालश्वपचौ वर्ज्यौ निवापे समुपस्थिते।
काषायवासाः कुष्ठी वा पतितो ब्रह्महाऽपि वा॥ 13-138-43(86779)
सङ्कीर्णयोनिर्विप्रश्च सम्बन्धी पतितश्च यः।
वर्जनीय बुधैरेते निवापे समुपस्थिते॥ 13-138-44(86780)
इत्येवमुक्त्वा भगवान्स्ववंश्यं तमृषिं पुरा।
पितामहसभां दिव्या जगामात्रिस्तपोधनः॥ ॥ 13-138-45(86781)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि अष्टत्रिंशदधिकशततमोऽध्यायः॥ 138 ॥
Mahabharata - Anushaasana Parva - Chapter Footnotes
7-138-1 भृग्वङ्गिरसके यदा भृगवोऽङ्गिरसश्च वर्तन्ते नान्ये॥ 7-138-2 श्राद्धेषु कानि कर्माणि वर्ज्यानि॥ 7-138-8 कृत्वा उपकल्प्य। उपकार्याणि मृष्टान्नकशिपूपबर्हणादीनि। विरात्रे प्रभाते॥ 7-138-9 विषये मनःसंहृत्य शोकं त्यक्त्वेत्यर्थः॥ 7-138-12 दक्षिणावर्तिकाः प्रदक्षिणावर्तिताः। बृसीः आसनानि॥ 7-138-16 श्रौते पित्राद्युद्देशेन दृष्टो धर्मो लोके पुत्रोद्देशेनापि स्वेच्छया कल्पित इति सङ्करः॥ 7-138-23 तत्रार्थम्णे च सोमायेति ट.थ.पाठः॥ 7-138-28 ते प्रसिद्धाः पित्रादयः। विमुच्यन्ते किल्बिषात् नरकादिरूपात्॥ 7-138-38 पुलकाः असम्पूर्णतण्डुलयुक्तधान्यानि। हिङ्गुद्रवेषु शाकादिसंस्कारकद्रव्येषु॥ 7-138-39 सौभाञ्जनकः शिग्रुः॥ 7-138-40 शीतपाकी शाकविशेषः॥ 7-138-42 सुदर्शनं शाकविशेषः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|